Ishwarnaman- towards a revival of the ancient glory of India
If you are seeing garbled characters, then change the browser settings. View>encoding> Unicode (UTF-8)
Shiva Stuti of Ashwatthama -- recited by Ashwatthama before he killed the sleeping Pandava warriors. He got darshan of Lord Shiva who told him that the various warriors' Time had come.

उग्रं स्थाणुं शिवं रुद्रं शर्वमीशानमीश्वरम् ।
गिरिशं वरदं देवं भवभावनमीश्वरम् ।।

शितिकण्ठमजं शुक्रं दक्षक्रतुहरं हरम् ।
विश्वरूपं विरूपाक्षं बहुरूपमुमापतिम् ।।

श्मशानवासिनं दृप्तं महागणपतिं विभुम् ।
खष्ट् वाङ्गधारिणं रुद्रं जटिलं ब्रह्मचारिणम् ।।

मनसा सुविशुद्धेन दुष्करेणाल्पचेतसा ।
सोऽहमात्मोपहारेण यक्ष्ये त्रिपुरघातिनम् ।।

स्तुतं स्तुत्यं स्तूयमानममोघं कृत्तिवाससम् ।
विलोहितं नीलकण्ठमसह्यं दुर्निवारणम् ।।

शुक्रं ब्रह्मसृजं ब्रह्म ब्रह्मचारिणमेव च ।
व्रतवन्तं तपोनिष्ठमनन्तं तपतां गतिम् ।।

बहुरूपं गणाध्यक्षं त्र्यक्षं पारिषदप्रियम् ।
धनाध्यक्षेक्षितमुखं गौरीहृदयवल्लभम् ।।

कुमारपितरं पिङ्गं गोवृषोत्तमवाहनम् ।
तनुवाससमत्युग्रमुमाभूषणतत्परम् ।।

परं परेभ्यः परमं परं यस्मान्न विद्यते ।
इष्वस्त्रोत्तमभर्तारं दिगन्तं देशरक्षिणम् ।।

हिरण्यकवचं देवं चन्द्रमौलिविभूषणम् ।
प्रपद्ये शरणं देवं परमेण समाधिना ।।

* * * * * *
Top of page
Home