Ishwarnaman- towards a revival of the ancient glory of India
If you are seeing garbled characters, then change the browser settings. View>encoding> Unicode (UTF-8)
Bhaja Govindam

श्री आदिशङ्कराचार्य कृत् ' भज गोविन्दम् ' Sri AdiShankaracharya's 'Bhajagovindam'

भज गोविन्दं भज गोविन्दं गोविन्दं भज मूढमते ।
संप्राप्ते सन्निहिते काले न हि न हि रक्षति डुकृञ्करणे ।। 1।।

मूढ जहीहि धनागमतृष्णां कुरु सद् बुद्धिं मनसि वितृष्णाम् ।
यल्लभसे निजकर्मोपात्तं वित्तं तेन विनोदय चित्तम् ।।2।। भज गोविन्दं ...

नारीस्तनभरनाभीदेशं दृष्टवा मा गा मोहावेशम् ।
एतन्मांसावसादिविकारं मनसि विचिन्तय वारं वारम् ।।3।। भज गोविन्दं ...

नलिनीदलगतजलमतितरलं तद्वज्जीवितमतिशयचपलम् ।
विद्धि व्याध्यभिमानग्रस्तं लोक शोकहतं च समस्तम् ।।4।। भज गोविन्दं ...

यावद्वित्तोपार्जनसक्तस्तावन्निजपरिवारो रक्तः ।
पश्चाज्जीवति जर्जरदेहे वार्तां कोSपि न पृच्छति गेहे ।।5।। भज गोविन्दं ...

यावत्पवनो निवसति देहे तावत्पृच्छति कुशलं गेहे ।
गतवति वायौ देहापाये भार्या बिभ्यति तस्मिन्काये ।।6।। भज गोविन्दं ...

बालस्तावत्क्रीडासक्तस्तरुणस्त्वत्तरुणीसक्तः ।
वृद्धस्तावच्चिन्तासक्तः परसे ब्रह्माणि कोSपि न सक्तः ।।7।। भज गोविन्दं ...

का ते कान्ता कस्ते पुत्रः संसारोSयमतीव विचित्रः ।
कस्य त्वं कः कुत आयातस्तत्तवं चिन्तय तदिह भ्रातः ।।8।। भज गोविन्दं ...

सत्सङ्गत्वे निस्सङ्गत्वं निस्सङ्गत्वे निर्मोहत्वम् ।
विर्मोहत्वे निश्चलतत्त्वं निश्चलतत्त्वे जीवनमुक्तिः ।।9।। भज गोविन्दं ...

वयसि गते कः कामविकारः शुष्के नीरे कः कासारः ।
क्षीणे वित्ते कः परिवारो ज्ञाते तत्त्वे कः संसारः ।।10।। भज गोविन्दं ...

मा कुरु धनजनयौवनगर्वं हरति निमेषात्कालः सर्वम् ।
मायामयमिदमखिलं बुध्वा ब्रह्मपदं त्वं प्रविश विदित्वा ।।11।। भज गोविन्दं ...

दिनयामिन्यौ सायं प्रातः शिशिरवसन्तौ पुनरायातः ।
कालः क्रीडति गच्छत्यायुस्तदपि न मुञ्चत्याशावायुः ।।12।। भज गोविन्दं ...

का ते कान्ता धनगतचिन्ता वातुल किं तव नास्ति नियन्ता।
त्रिजगति सज्जनसंगतिरेका भवति भवार्णवतरणे नौका ।।13।। भज गोविन्दं ...

जटिलो मुण्डी लुञ्छितकेशः काषायाम्बरबहुकृतवेषः ।
पश्यन्नपि च न पश्यति मूढो ह्युदरनिमित्तं बहुकृतवेषः ।।14।। भज गोविन्दं ...

अङ्गं गलितं पलितं मुण्डं दशनविहीनं जातं तुण्डम् ।
वृद्धो याति गृहीत्वा दण्डं तदपि न मुञ्चत्याशापिण्डम् ।।15।। भज गोविन्दं ...

अग्ने वह्निः पृष्ठे भानू रात्रौ चुबुकसमर्पितजानुः ।
करतलभिक्षस्तरुतलवासस्तदपि न मुञ्चत्याशापाशः ।।16।। भज गोविन्दं ...

कुरुते गङ्गासागरगमनं व्रतपरिपालनमथवा दानम् ।
ज्ञानविहीनः सर्वमतेन मुक्तिं न भजति जन्मशतेन ।।17।। भज गोविन्दं ...

सुरमन्दिरतरुमूलनिवासः शय्या भूतलमजिनं वासः ।
सर्वपरिग्रहभोगत्यागः कस्यसुखं न करोति विरागः ।।18।। भज गोविन्दं ...

योगरतो वा भोगरतो वा सङ्गरतो वा सङ्गविहीनः ।
यस्य ब्रह्मणि रमते चित्तं नन्दति नन्दति नन्दत्येव ।।19।। भज गोविन्दं ...

भगवद्गीता किञ्चिदधीता गङ्गाजललवकणिका पीता ।
सकृदपि येन मुरारिसमर्चा क्रियते तस्य यमेन न चर्चा ।।20।। भज गोविन्दं ...

पुनरपि जननं पुनरपि मरणं पुनरपि जननीजठरे शयनम् ।
इह संसारे बहुदुस्तारे कृपयाSपारे पाहि मुरारे ।।21।। भज गोविन्दं ...

रथ्याचर्पटविरचितकन्थः पुण्यापुण्यविवर्जितपन्थः ।
योगी योगनियोजितचित्तो रमते बालोन्मत्तवदेव ।।22।। भज गोविन्दं ...

कस्त्वं कोSहं कुत आयातः का मे जननी का मे तातः ।
इति परिभावय सर्वमसारं विश्वं त्यक्त्वा स्वप्नविचारम् ।।23।। भज गोविन्दं ...

त्वयि मयि चान्यत्रैको विष्णुर्व्यर्थं कुप्यसि मय्यसहिष्णुः ।
भव समचित्तः सर्वत्र त्वं वाञ्छस्यचिराद्यदि विष्णुत्वम् ।।24।। भज गोविन्दं ...

शत्रौ मित्रे पुत्रे बन्धौ मा कुरु यत्नं विग्रहसन्धौ ।
सर्वस्मिन्नपि पश्यात्मानं सर्वत्रोत्सृज भेदाज्ञानम् ।।25।। भज गोविन्दं ...

कामं क्रोधं लोभं मोहं त्यक्त्वाSSत्मानं पश्यति सोSहम् ।
आत्मज्ञान विहीना मूढास्ते पच्यन्ते नरकनिगूढाः ।।26।। भज गोविन्दं ...

गेयं गीतानामसहस्त्रं ध्येयं श्रीपतिरूपमजस्त्रम् ।
नेयं सज्जनसङ्गे चित्तं देयं दीनजनाय च वित्तम् ।।27।। भज गोविन्दं ...

सुखतः क्रियते रामाभोगः पश्वाद्धन्त शरीरे रोगः ।
यद्यपि लोके मरणं शरणं तदपि न मुञ्चति पापाचरणम् ।।28।। भज गोविन्दं ...

अर्थमनर्थं भावय नित्यं नास्ति ततः सुखलेशः सत्यम् ।
पुत्रादपि धनभाजां भीतिः सर्वत्रैषा विहिता रीतिः ।।29।। भज गोविन्दं ...

प्राणायामं प्रत्याहारं नित्यानित्यविवेकविचारम् ।
जाप्यसमेत समाधिविधानं कुर्ववधानं महदवधानम् ।।30।। भज गोविन्दं ...

गुरुचरणाम्बुजनिर्भरभक्तः संसारादचिराद्भव मुक्तः ।
सेन्द्रियमानसनियमादेवं द्रक्ष्यसि निजहृदयस्थं देवम् ।।31।। भज गोविन्दं ...
* * * * * *
Top of page
Home