![]() | |||||||||
| Ishwarnaman- towards a revival of the ancient glory of India | |||||||||
|
|
|
|
|
|
|
|
|
|
| If you are seeing garbled characters, then change the browser settings. View>encoding> Unicode (UTF-8) | |||||||||
| Gajendra Moksha | |||||||||
|
गजेन्द्र मोक्ष Gajendra Moksha श्री शुक उवाच एवं व्यवसितो बुद्धया समाधाय मनो हृदि । जजाप परमं जाप्यं प्राग्जन्मन्युशिक्षितम् ।।1।। गजेन्द्र उवाच ओम् नमो भगवते तस्मै यत एतच्चिदात्मकम् । पुरुषायादिबीजाय परेशायाभिधीमहि ।।2।। यस्मिन्नदं यतश्चेदं येनेदं य इदं स्वयम् । योSमात्परस्माच्च परस्तं प्रपद्ये स्वयम्भुवम् ।।3।। यः स्वात्मनीदं निजमाययार्पितं क्वचिद्विभातं क्व च तत्तिरोहितम् अविद्धदृक् साक्ष्युभयं तदीक्षते स आत्ममूलोSवतु मां परात्परः ।।4।। कालेन पञ्चत्वमितेषु कृत्स्नशो लोकेषु पालेषु च सर्वहेतुषु । तमस्तदाSSसीद् गहनं गभीरं यस्तस्य पारेSभिविराजते विभुः ।।5।। न यस्य देवा ऋषयः पदं विदुर्जन्तुः पुनः कोSर्हति गन्तुमीरितुम् । यथा नटस्याकृतिभिर्विचेष्टतो दुरत्ययानुक्रमणः स मावतु ।।6।। दिदृक्षवो यस्य पदं सुमङ्गलं विमुक्तसङ्गा मुनयः सुसाधवः । चरन्त्यलोकव्रतमव्रणं वने भूतात्मभूताः सुहृदः स मे गतिः ।।7।। न विद्यते यस्य च जन्म कर्म वा न नामरूपे गुणदोष एव वा । तथापि लोकाप्ययसम्भवाय यः स्वमायया तान्यनुकालमृच्छति ।।8।। तस्मै नमः परेशाय ब्रह्मणेSनन्तशक्तये । अरूपायोरुरूपाय नम आश्चर्यकर्मणे ।।9।। नम आत्मप्रदीपाय साक्षिणे परमात्मने । नमो गिरां विदूराय मनसश्चेतसामपि ।।10।। सत्तवेन प्रतिलभ्याय नैष्कर्म्येण विपश्चिता । नमः कैवल्यनाथाय निर्वाणसुखसंविदे ।।11।। नमः शान्ताय घोराय मूढाय गुणधर्मिणे । निर्विशेषाय साम्याय नमो ज्ञानघनाय च ।।12।। क्षेत्रज्ञाय नमस्तुभ्यं सर्वाध्यक्षाय साक्षिणे । पुरुषायात्ममूलाय मूलप्रकृतये नमः ।।13।। सर्वेन्द्रियगुणद्रषट्रे सर्वप्रत्ययहेतवे । असताच्छाययोक्ताय सदाभासाय ते नमः ।।14।। नमो नमस्तेSखिलकारणाय निष्कारणायाद्भुतकारणाय । सर्वागमाम्नायमहार्णवाय नमोSपवर्गाय परायणाय ।।15।। गुणारणिच्छन्नचिदूष्मपाय तत्क्षोभविस्फूर्जितमानसाय । नैष्कर्म्यभावेन विवर्जितागमस्वयंप्रकाशाय नमस्करोमि ।।16।। मादृक्प्रपन्नपशुपाशविमोक्षणाय मुक्ताय भूरिकरुणाय नमोSलयाय । स्वांशेन सर्वतनुभृन्मनसि प्रतीतप्रत्यग्दृशे भगवते बृहते नमस्ते।।17।। आत्मात्मजाप्तगृहवित्तजनेषु सक्तैर्दुष्प्रापणाय गुणसङ्गविवर्जिताय । मुक्तात्मभिःस्वहृदये परिभाविताय ज्ञानात्मने भगवते नम ईश्वराय ।।18।। यं धर्मकामार्थविमुक्तिकामा भजन्त इष्टां गतिमाप्नुवन्ति । किं त्वाशिषो रात्यपि देहव्ययं करोतु मेSदभ्रदयो विमोक्षणम् ।।19।। एकान्तिनो यस्य न कञ्चनार्थं वाञ्छन्ति ये वै भगवत्प्रपन्नाः । अत्यद्भुतं तच्चारितं सुमङ्गलं गायन्त आनन्दसमुद्रमग्नाः ।।20।। तमक्षरं ब्रह्म परं परेशमव्यक्तमाध्यात्मिकयोगगम्यम् । अतीन्द्रियं सूक्ष्ममिवातिदूरमनन्तमाद्यं परिपूर्णमीडे ।।21।। यस्य ब्रह्मादयो देवा वेदा लोकाश्चराचराः । नामरूपविभेदेन फल्ग्व्या च कलया कृताः ।।22।। यथार्चिषोSग्नेः सवितुर्गभस्तयो निर्यान्ति संयान्त्यसकृत् स्वरोचिषः । तथा यतोsयं गुणसम्प्रवाहो बुद्धिर्मनः खानि शरीरसर्गाः ।।23।। स वै न देवासुरमर्त्यतिर्यङ् न स्त्री न षण्ढो न पुमान न जन्तुः । नायं गुणः कर्म न सन्न चासन् निषेधशेषो जयतादशेषः ।।24।। जिजीविषे नाहमिहामुया किमन्तर्बहिश्चावृतयेभयोन्या । इच्छामि कालेन न यस्य विप्लवस्तस्यात्मलोकावरणस्य मोक्षम् ।।25।। सोSहं विश्वसृजं विश्वमविश्वं विश्ववेदसम् । विश्वात्मानमजं ब्रह्म प्रणतोSस्मि परं पदम् ।।26।। योगरन्धितकर्माणो हृदि योगविभाविते । योगिनो यं प्रपश्यन्ति योगेशं तं नतोSस्म्यहम् ।।27।। नमो नमस्तुभ्यमसह्यवेगशक्तित्रयायाखिलधीगुणाय । प्रपन्नपालाय दुरन्तशक्तयेकदिन्द्रियाणामनवाप्यवर्त्मने ।।28।। नायं वेद स्वमात्मानं यच्छक्तयाहंधिया हतम् । तं दुरत्ययमाहात्म्यं भगवन्तमितोSस्म्यहम् ।।29।। श्री शुक उवाच एवं गजेन्द्रमुपवर्णितनिर्विशेषं ब्रह्मादयो विविधलिङ्गभिदाभिमानाः । नैते यदोपससृपुर्निखिलात्मकत्वात् तत्राखिलामरमयो हरिराविरासीत् ।।30।। तं तद्वदार्त्तमुपलभ्य जगन्निवासः स्तोत्रं निशम्य दिविजैः सह संस्तुवद्भिः । छन्दोमयेन गरुडेन समुह्यमानश्चक्रायुधोSभ्यगमदाशु यतो गजेन्द्रः ।।31।। सोSन्तस्सरस्युरुबलेन गृहीत आर्त्तो दृष्ट्वा गरुत्मति हरिं ख उपात्तचक्रम् । उत्क्षिप्य साम्बुजकरं गिरमाह कृच्छ्रान्नारायणाखिलगुरो भगवन् नमस्ते ।।32।। तं वीक्ष्य पीडितमजः सहसावतीर्य सग्राहमाशु सरसः कृपयोज्जहार । ग्राहाद विपाटितमुखादरिणा गजेन्द्रं सम्पश्यतां हरिरमूमुचदुस्त्रियाणाम् ।।33।। | |||||||||
| Top of page | |||||||||
| Home | |||||||||